エピソード

  • प्रत्युत्पन्नमतित्वम्
    2026/01/27

    काचित् विधवा पुत्रेण सह दारिद्र्यमयं जीवनं यापयति स्म । कदाचित् चुल्ल्याम् अग्निः सर्वथा निर्विण्णः आसीत् । पार्श्वस्थधनिकगृहं गत्वा तप्ताङ्गारान् आनय इति पुत्रं प्रेषितवती माता। पुत्रः गत्वा सेवकं तप्ताङ्गारान् अयाचत । किन्तु सः सेवकः बालकम् उपेक्षया पश्यन् अवदत् 'किं युतकेन तप्ताङ्गाराः नीयेरन् ? त्वया युतकमपि न धृतम्' इति । क्षणं विचिन्त्य सः बालः समीपे स्थितेन जलेन हस्तौ आर्द्रीकृत्य काष्ठभस्म अञ्जलौ धृत्वा 'तप्ताङ्गारान् अञ्जलौ निक्षिपतु' इति सेवकम् अवदत् । एतत् सर्वं दृष्टवता धनिकेन बालकास्य गृहं गत्वा 'पुत्रः बुद्धिमान् अस्ति । अस्य शिक्षणव्यवस्था मया करिष्यते' इति उक्त्म् । सः बालः एव गच्छता कालेन न्यायशास्त्रे महत् ज्ञानं सम्पाद्य ख्यातिं प्राप्तवान् । तस्य नाम अस्ति 'रघुनाथशिरोमणिः' ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A poor widow sent her son to fetch burning embers from a wealthy neighbor. The servant mocked him for not carrying a vessel. The boy cleverly moistened his hands, filled them with ash, and asked the servant to place the embers there. Impressed by his ingenuity, the wealthy man sponsored his education. In time, he boy became a renowned scholar of law, known as Raghunātha Śiromaṇi.

    続きを読む 一部表示
    3 分
  • बोधनम्
    2026/01/26

    कदाचित् गुरुकुले मगधराजकुमारं गुरुः विना कारणं दण्डेन ताडितवान् आसीत् । वेदनाम् अनुभवन् 'किमर्थम् एवं मम दण्डनं क्रियते ?’ इति राजकुमारेण पृष्टे गुरुः गाम्भीर्येण अवदत् 'कालान्तरेण स्वयं ज्ञास्यते त्वया' इति । कालान्तरेण राजकुमारः सिंहासनम् आरूढवान् । कदाचित् गुरुः तं द्रष्टुम् आगतः । राजा तं यथोचितं सत्कृत्य सम्भाषणावसरे गुरुकुले विना कारणं दण्डनस्य कारणम् अपृच्छत् । गुरुः हसन् अवदत् 'तस्मिन् दिने मया न प्रहृतम्, अपि तु बोधितम् । अकृतापराधाः यदा दण्ड्येरन् तर्हि तैः कीदृशी वेदना प्राप्येत इति मया ज्ञापनीयम् आसीत् । सम्यक् विचार्य एव त्वया दण्ड्याः दण्डनीयाः....’ इति । 'आजीवनं भवतः उपदेशस्य अनुगुणम् एव व्यवहरिष्यामि अहम्' इति विनयेन अवदत् राजा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once in a gurukula, the teacher struck the prince of Magadha with a punishment, seemingly without reason. Feeling the pain, the prince asked: ‘Why am I being punished in this way?’ The teacher, with gravity, replied: ‘In time, you will understand for yourself’. Later, the prince ascended the throne. One day, the teacher came to see him. The king welcomed him with due honor, and during their conversation asked about the reason for that punishment in the gurukula. The teacher smiled and said: ‘On that day, I did not strike you, but rather taught you. I wished to show you what kind of suffering is felt when the innocent are punished. So that when you judge, you may punish only after proper consideration’. The king humbly replied: ‘Throughout my life, I shall act in accordance with your teaching’.

    続きを読む 一部表示
    3 分
  • समस्याः मण्डूकाः इव
    2026/01/25

    कस्मिंश्चित् प्रवचने कश्चन पुरुषः महात्मानम् अपृच्छत् यत् जीवने कथं सर्वाः समास्याः निवार्य तृप्त्या जीवनं यापयितुं शक्यम् इति । तदा माहात्मना कांश्चन सजीवान् मण्डूकान् आनाय्य काञ्चित् तुलाम् अपि आनाय्य तेषां मण्डूकाननां भारं ज्ञात्वा वद इति उक्तम् । अल्पे एव काले तेन पुरुषेण ज्ञातं यत् मण्डूकानां तोलनं कियते क्लेशाय इति । तदा महात्मा अवदत् 'यथा मण्डूकाः एकत्र स्थापयितुं न शक्याः तथैव समस्यानां सर्वासां निवारणम् अपि न शक्यम् । उद्यमः, साहसः, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः इत्येते षट् गुणाः यदा अस्मासु स्युः तर्हि सर्वान् क्लेशान् निवार्य अग्रे गन्तुं शक्नुयाम वयम्' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain discourse, a man once asked a great soul: ‘In life, how is it possible to overcome all difficulties and live with contentment?’. Then the Mahatma brought some living frogs and a weighing scale, and asked the man to measure their weight. Within a short time, the man realized that weighing the frogs was troublesome. The Mahatma then said: ‘Just as frogs cannot be kept together in one place, in the same way, it is not possible to eliminate all problems at once. But when we possess six qualities—effort, courage, patience, intelligence, strength, and valor—then we can overcome all difficulties and move forward’.

    続きを読む 一部表示
    3 分
  • अध्यापनव्रतम्
    2026/01/24

    कश्चन तरुणः विद्याभ्यासं समाप्य स्वग्रामं गत्वा अध्ययन् कुर्वन् यथाशक्ति अध्यापनम् अपि आरब्धवान् । तस्य उत्कृष्टेन अध्यापनेन दिने दिने तस्य कक्ष्यायां छात्रसङ्ख्या प्रवृद्धा । तेन अन्ये अध्यापकाः असूयां प्राप्य छात्राणां मातापितरौ मिथ्या उक्त्वा छात्राः यथा कक्ष्यां न गच्छेयुः तथा कृतवन्तः । एतत् कुतन्त्रं जानन् अपि सः तरुणः अधीरः न जातः । कांश्चन शङ्कून् पुरतः संस्थाप्य सः अध्यापनम् आरब्धवान् । द्वित्राणां दिनानाम् अनन्तरं ग्रामीणाः तस्य अध्यापनश्रद्धाम् असूयग्रस्तानां कुतन्त्रं च ज्ञात्वा तं तरुणं क्षमां याचित्वा 'भवता एव अस्मदीयाः बालाः पाठनीयाः' इति प्रार्थितवन्तः । शङ्कून् पाठयन् पाठनव्रतं रक्षितवतः तस्य तरुणस्य नाम 'शङ्कुकः' इत्येव ख्यातम् अभवत् । साहित्यशास्त्रक्षेत्रे तदीयं नाम प्रसिद्धम् अस्ति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A young man returned to his village after completing his studies. He began teaching, and his classes grew popular. Jealous teachers spread false rumors to keep students away. Unshaken, he taught wooden poles as if they were pupils. Soon, the villagers realized his dedication and the deceit of others. They asked him to teach their children, and his name Shankuka (“the one who taught stakes”) became famous in the world of literature.

    続きを読む 一部表示
    3 分
  • चत्वारः प्रहरिणः
    2026/01/23

    कस्यचन लघुदेशस्य राजा सुशर्मा प्रजानां सुखं कथं स्यात् इति सर्वदा चिन्तयति स्म । अथ कदाचित् इन्धुधरः इति राजा यदा तस्य देशम् आगतः तदा सुशर्माणम् अपृच्छत् 'सुविशाले अपि भवतः देशे कथं शान्तिसुखादयः अधिकाः । मम राज्ये सान्तिसुखादिकं वर्धयितुं मया किं करणीयम् ?’ इति । तदा राजा इन्दुधरः अवदत् 'मम राज्ये सत्यप्रेमन्यायत्यागाः इति चत्वारः प्रहरिणः सन्ति । ते असत्यात्, घृणातः, अन्यायात्, स्वार्थात् च मम मद्देशस्य च रक्षणं कुर्वन्ति' इति । तदा इन्धुधरः 'मम देशे अपि तेषां पोषणाय योग्यां व्यवस्थां करिष्यामि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain small kingdom, the king named Susharma always pondered how his people might live happily. One day, when King Indudhara came to his land, Susharma asked him: "In your vast kingdom, how is it that peace and happiness are greater? What should I do to increase peace and happiness in my own realm?". Then King Indudhara replied: "In my kingdom, there are four guardians—Truth, Love, Justice, and Renunciation. They protect me and my land from falsehood, hatred, injustice, and selfishness". Hearing this, Susharma said: "I too shall establish a proper system in my country to nurture these guardians".

    続きを読む 一部表示
    3 分
  • मम अनुत्तीर्णता भवितुं न अर्हति
    2026/01/22

    कस्मिंश्चित् विद्यालये परीक्षापरिणामस्य घोषणस्य अनन्तरं कश्चन छात्रः उत्थाय 'मम परीक्षापरिणामः भवता न उक्तः' इति अवदत् । तदा शिक्षकः अवदत् 'त्वं ज्वरादिकारणम् उक्त्वा दीर्घकालं यावत् कक्ष्यायाम् अनुपस्थितः आसीः । अतः त्वम् अनुत्तीर्णः स्याः । तस्मात् एव आवल्यां तव नाम नास्ति' इति । 'मम अनुत्तीर्णता भवितुं न अर्हति, श्रीमन्' इति सः छात्रः आत्मविश्वासेन अवदत् । एवं वादः प्रतिवादः च प्राचलत् तयोः मध्ये । छात्रः यदा यदा उत्तीर्णताविषये वादम् अनुवर्तितवान् तदा तदा शिक्षकः तस्य दण्डं वर्धितवान् । तावता लिपिकारः आगत्य 'एतस्य छात्रस्य नाम प्रथमश्रेणीं प्राप्य उत्तीर्णानाम् आवल्याम् आसीत् । अनवधानात् अस्माभिः न लक्षितम्' इति अवदत् । आत्मविश्वासस्य खनी इव स्थितस्य बालकस्य नाम 'राजेन्द्रप्रसादः' यः भाविनि काले भारतस्य प्रथमराष्ट्रपतिः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain school, after the announcement of the examination results, a student stood up and said, “My examination result has not been declared by you”. Then the teacher replied, “You had remained absent from the class for a long time, giving the reason for fever and other ailments. Therefore, you must have failed. That is why your name is not in the list”. The student, with confidence, said, “My failure is not justified, Sir”. Thus, an argument and counter-argument continued between the two. Whenever the student insisted on his success, the teacher increased his punishment. Meanwhile, the clerk came and said, “This student’s name was actually in the list of those who passed with first class. We failed to notice it due to oversight.” The boy, who stood firm like a mine of self-confidence, was named Rajendra Prasad, who in the future became the first President of India.

    続きを読む 一部表示
    3 分
  • कर्मयोगः नाम कः?
    2026/01/21

    कदाचित् पर्वतारोहणसमये कश्चन शिष्यः रमणमहर्षिम् अपृच्छत् 'कर्माचरणस्य कर्मयोगस्य च कः भेद:?’ इति । तदा महर्षिः केनचित् दृष्टान्तमाध्यमेन विवृणोति यत् 'भारभावः यतः अनुभूयेत तत् कर्म । भारवहने लाघवता अनुभूयेत यत् सः कर्मयोगः । जीवने बहूनि श्रमत्यागसेवादीनि कार्याणि करणीयानि भवन्ति । तानि भवन्ति अपरिहार्याणि । तस्मात् वयं खेदेन, अनिच्छया, अप्रसन्नमनसा वा तेषाम् अनुष्ठानं चिन्तयामः । यत् कार्यं क्रियते तदेव यदि प्रीत्या क्रियते तर्हि सः भवति 'कर्मयोगः' । कर्मसु कौशलम् एव कर्मयोगः' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Perhaps during a mountain climb, a disciple once asked Ramana Maharshi: ‘What is the difference between mere action and Karma Yoga?’. Then Maharshi explained through an example: ‘Where a sense of burden is felt, that is mere action. Where lightness is experienced in carrying the burden, that is Karma Yoga. In life, many tasks such as labor, renunciation, service, and duties must be performed. They are unavoidable. Therefore, we often think of performing them with fatigue, reluctance, or an unhappy mind. But if the same work is done with joy, then it becomes Karma Yoga. Skill in action itself is Karma Yoga’.
    6. मम अनुत्तीर्णता भवितुं न अर्हति

    続きを読む 一部表示
    3 分
  • दृष्ट्यनुगुणा भावना
    2026/01/20

    रामरावणयोः युद्धस्य अनन्तरं कदाचित् सभायां चर्चा जाता 'अशोकवने स्थितानां पुष्पाणां वर्णाः अनेकविधाः आसन् ननु ?’ इति । 'तत्र सर्वाणि अपि पुष्पाणि श्वेतवर्णानि आसन्' इति अवदत् सीता । 'श्वेतपुष्पाणि क्व? सर्वाणि रक्तवर्णानि ननु आसन् ?’ इति अवदत् आञ्जनेयः । 'उभौ अपि परस्परविरुद्धम् अभिप्रायं वदतः । कस्य कथनं वास्तविकम् ?’ इति केनचन सभासदेन पृष्टे श्रीरामः अवदत् 'उभयोः अपि कथनं युक्तम् एव । तत्तस्य दृष्टिम् अवलम्ब्य तादृशी भावना भवति । अशोकवने अपि स्थिता सीता सर्वदा शान्ता भवति स्म । अतः एव सा सर्वत्र श्वेतवर्णतां पश्यति स्म । रावणस्य विषये, स्वस्य असहायकतायाः विषये, रावणस्य कृतस्य कार्यस्य विषये आञ्जनेयस्य महान् क्रोधः भवति स्म । अतः सः सर्वत्र रक्तवर्णताम् अनुभवति स्म' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    After the war between Rama and Ravana, a discussion once arose in an assembly: “Were there not many colors of flowers in the Ashoka grove?” Sita said, “All the flowers there were white”. Hanuman objected, “Where were white flowers? All of them were red!” When the assembly members asked whose statement was true, Rama explained, “Both are correct. It depends on one’s perspective. Sita, who remained calm and peaceful in the Ashoka grove, perceived everything as white, a symbol of serenity. Hanuman, filled with anger against Ravana, his deeds, and his helpless condition, experienced everything as red, a symbol of fury. Thus, both views are valid, shaped by the feelings within”.

    続きを読む 一部表示
    3 分