『बालमोदिनी』のカバーアート

बालमोदिनी

बालमोदिनी

著者: सम्भाषणसन्देशः
無料で聴く

概要

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.© 2026 सम्भाषणसन्देशः スピリチュアリティ ヒンズー教 文学・フィクション
エピソード
  • योग्यं प्रशासनम्
    2026/01/30

    उत्तमस्य प्रशासनस्य परिणामः कः इति अनया कथया ज्ञातुं शक्नुमः । कदाचित् केनचन संन्यासिना स्वशिष्यैः सह काचित् रुदती महिला दृष्टा । कारणे पृष्टे ज्ञातं यत् केनचन नरभक्षकेन व्याघ्रेण तस्याः परिवारसदस्याः, अन्ये केचन ग्रामजनाः च निष्ठुरतया भक्षिताः इति । शिष्येषु कश्चन अवदत् यत् एतं प्रदेशं परित्यज्य अन्यत् स्थानं गच्छेयुः इति । किन्तु तन्नीराकृत्य महिला अवदत् 'एतस्य प्रदेशस्य राजा सज्जनः धर्मनिष्ठः प्रजानुरागी च । देशे द्रोहः, वञ्चना, उत्कोचः, अन्याय्यं वा न दृश्यते । उत्तमे राजशासने सति वयम् अन्यत्र क्व वा गच्छेम?’ इति । तत् श्रुत्वा संन्यासी अवदत् 'बहूनि कष्टानि आपतेयुः चेदपि योग्ये प्रशासके सति जनाः तानि सहन्ते एव । तेनैव भूमिः नन्दनवनायते' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    This tale shows the result of good governance. Once, a monk with his disciples saw a weeping woman. On asking, they learned that her family and some villagers had been cruelly devoured by a man-eating tiger. One disciple suggested leaving the region. But the woman refused, saying: ‘The king here is virtuous, righteous, and devoted to his people. In this land there is no treachery, deceit, bribery, or injustice. With such noble rule, where else could we go?’. Hearing this, the monk said: ‘Even if many hardships arise, people endure them under a worthy ruler. By his governance, the land itself becomes like a paradise.’

    続きを読む 一部表示
    3 分
  • उपायचतुरः सङ्कनायकः
    2026/01/29

    षोडशशतके प्रवृत्ता घटना एषा । अन्यमतीयानां दुराक्रमणकारणतः विश्वनाथमन्दिरम् उध्वस्तं, विश्वनाथस्य पूजा स्थगिता च इति विषयः सङ्कनायकं तुदति स्म । सः काषायवस्त्रं धृत्वा देहलीम् अगच्छत् । देहल्याम् अकबरस्य सेनापतिः अङ्कुशाखानः दुर्गद्वारे उद्घोषितवान् - यः आत्मानं खड्गयुद्धनिपुणं मन्यते सः मया सह युद्धं कुर्यात् इति । सङ्कनायकः महत् कौशलं दर्शयन् अल्पे एव काले अङ्कुशाखानस्य शिरश्छेदनम् अकरोत् । तस्य धैर्यं युद्धकौशलं च दृष्ट्वा सन्तोषं प्रकटयन् अकबरः तस्मै उपायनानि दातुम् उद्युक्तः । तत् निराकुर्वन् सङ्कनायकः अवदत् 'काश्यां विश्वनाथस्य पूजां व्यवस्थापयितुम् अनुज्ञा देया' इति । अकबरः सहर्षम् अनुज्ञां दत्तवान् । काशीतः सुदूरे स्थित्वा अपि स्थगितायाः विश्वनाथपूजायाः पुनरपि आरम्भम् उपायेन साधितवतः सङ्कनायकस्य प्रयासः नितरां स्तुत्यः एव ननु ?
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the 16th century, the Visvanatha temple’s worship was halted after invasions. Distressed, Sankanayaka went to Delhi, where he defeated Akbar’s general Ankush Khān in a sword duel. Impressed, Akbar offered him gifts, but Sankanayaka instead requested permission to restore Visvanatha’s worship in Kashi. Akbar agreed, and the temple rituals resumed — a noble act of devotion achieved through courage and selflessness.

    続きを読む 一部表示
    3 分
  • परतत्त्वम् एकमेव
    2026/01/28

    ब्रह्म सत्यं जगन्मिथ्या । परतत्त्वं तु एकमेव । यत् सर्वत्र सर्वदा तिष्ठति तदेव पारमार्थिकं सत्यम् । यत्र यत् नास्ति तत्र तस्य रूपस्य आरोपणम् एव उच्यते 'प्रातिभासिकं सत्यम्' इति । यत् लोके व्यवहारे सत्यतया स्वीक्रियते, तत् व्यावहारिकं सत्यम् इति कथ्यते। यः ब्रह्मज्ञानं प्राप्तवान् सः सर्वं परब्रह्ममयं पश्यति । प्रातिभासिकं, व्यावहारिकं वा सत्यम् अतिक्राम्य पारमार्थिकं सत्यं प्रति गमनम् एव ज्ञानार्थिनां लक्ष्यम् । एतत् सर्वम् अनया कथया दृष्टान्तरूपेण कश्चन साधुः शिष्यौ पाठयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Brahman alone is truth; the world is illusory. The ultimate reality is one, ever-present everywhere. That which is superimposed where it does not truly exist is called apparent truth (prātibhāsika satya). That which is accepted as real in worldly dealings is called practical truth (vyāvahārika satya). One who attains knowledge of Brahman perceives everything as permeated by the Supreme. For seekers of wisdom, the goal is to transcend both apparent and practical truths and realize the absolute truth (pāramārthika satya). A saint once taught this to his disciples through a parable.

    続きを読む 一部表示
    4 分
まだレビューはありません